SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ SOCIECCORDINGHOOL जगुणा । एवं उभतो पासिं पंचसमतिगाणि दोवि तुल्ला, असंखेजगुणा । ततो उभतो पासिं चतुसमतिगाणि दोवि तुल्ला, असंखेनगुणाणि । ततो उवरि तिसमतिगाणि जोगट्ठाणाणि असंखिजगुणाणि । ततो बिसमइगा|णि जोगठाणाणि असंखिजगुणाणि । 'समयसो ऊणठाणाणि' त्ति-अट्ठसमयगेहिंतो सत्तसमइगाणि समएणं ऊणाणि, एवं जावतिसमइगेहिंतो दुसमइगाणि समएणूणाणि ॥१३॥ (मलय०) तदेवमुक्तमुत्कृष्टमवस्थानकालमानम् । साम्प्रतं जघन्यमवस्थानकालमानमाह-'एगे'त्ति-सर्वेषामुक्तस्वरूपाणां योगस्थानानां 7 जघन्यत एकसमयं यावदवस्थानम् । तथा यान्यप्यपर्याप्तसूक्ष्मनिगोदयोग्यान्यसंख्येयानि योगस्थानानि पूर्वमनुक्तकालनियमानि तेषां | जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानम् । यतः सर्वोऽप्यपयोप्तोऽपर्याप्तावस्थायां वर्तमानः प्रतिसमयमसंख्येयगुणरूपया योगद्वथा वर्धते, ततस्तद्योगस्थानानामजघन्योत्कृष्टमेकमेव समयं यावदवस्थानम् । तदेवमुक्ता समयमरूपणा । साम्प्रतमेतेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-'ठाणाणि' इत्यादि । अष्टसामयिकानि स्थानानि-योगस्थानानि, शेषसप्तसामयिकादियोगस्थानानि प्रतीत्य अल्पानि-स्तोकानि,अतिचिरकालावस्थायीनि हि योगस्थानानि स्तोकान्येव प्राप्यन्त इति कृत्वा । तेभ्यः प्रत्येकसमयमसंख्येयगुणानि | पूर्वोत्तररूपोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्पतरस्थितिकत्वात्, स्वस्थाने तु तानि द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसं. ख्येयगुणानि उभयपार्श्ववर्तीनि पदसामयिकानि, स्वस्थाने तु परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि पञ्चसामयिकानि उभयपार्श्व१६ वर्तीनि, स्वस्थाने तु परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि, चतुःसामयिकानि उभयपार्श्ववर्तीनि, स्वस्थाने तु परस्परं तुल्यानि । | तेभ्योऽप्पसंख्येयगुणानि त्रिसामयिकानि । तेभ्योऽप्यसंख्येयगुणानि द्विसामयिकानि । 'समसो ऊण ठाणाणि ति'-समयशः समयेन SPEECGCSCRICE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy