________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥७२॥
श्रेणेः प्रतिपातक्रमः
___ (मलय०)- 'वेइज्जमाण'त्ति । 'मोहनीयस्य'-मोहनीयप्रकृतीनां गुणश्रेणिः कालमाश्रित्य वेद्यमानसंज्वलनकालादभ्यधिका प्रतिप- | | तता सता प्रारभ्यते, समारोहकालगुणश्रेण्यपेक्षया तु तुल्या। तथा 'जय'त्ति प्राकृतत्वात् स्त्रीत्वनिर्देशः, येन संज्वलनेनोपशमश्रेणि प्रतिपन्नस्तमुदयेन प्राप्तः सन् ततः प्रभृति तस्य गुणश्रेणिं शेषकर्मसत्कगुणश्रेणिभिः सह तुल्यामारभते । यथा कश्चित्संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्ततः श्रेणेः प्रतिपतन् यदा संज्वलनक्रोधमुदयेन प्राप्तस्ततः प्रभृति तस्य गुणश्रेणिः शेषकर्मभिः समाना भवति । एवं | मानमाययोरपि वाच्यम् । संज्वलनलोभेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपातकाले प्रथमसमयादेवारभ्य संज्वलनलोभस्य गुणश्रेणिः शेषकर्मगुणश्रेणिभिः सह तुल्या प्रवर्तते । शेषकर्मणां पुनरुपशमश्रेणिमारोहतो यत् यत्र बन्धसंक्रमादि वृत्तं तत्तथैव प्रतिपततोऽपि क्रमेण पश्चानुपूा अन्यूनातिरिक्तं वेदितव्यम् ॥ ६॥
(उ०)-मोहस्य मोहनीयप्रकृतीनां गुणश्रेणिः कालमाश्रित्य वेद्यमानसंज्वलनकालादभ्यधिका प्रतिपतता सता प्रारभ्यते, समारोहकालगुणश्रेण्यपेक्षया तु तुल्या । तथा 'जय' त्ति प्राकृतत्वात् स्त्रीत्वनिर्देशः। ततोऽयमर्थः-येन संज्वलनेनोदयप्राप्तेनोपशमश्रेणिप्रतिपत्तिरासीत्तमुदयेन प्राप्तः सँस्तदनन्तरं तस्य गुणश्रेणि शेपकर्मसत्कगुणश्रेणिभिः सह तुल्यामारभते, यथा संज्वलनक्रोधोदयेनोपशमश्रेणिं प्रतिपन्नस्ततः श्रेणेः प्रतिपतन संज्वलनक्रोधोदय प्राप्तौ सत्यां तदनन्तरं संज्वलनक्रोधगुणश्रेणि शेषकर्मगुगश्रेणीसमानां निर्वर्तयतीति, एवं मानमाययोरपि वाच्यम् । संज्वलनलोभेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपातकाले प्रथमसमयादेवारभ्य संज्वलन लोभस्य गुणश्रेणिः शेषकर्मगुणश्रेणिभिः सह तुल्या प्रवर्तते ॥६॥ खवगुवसामणपडिवयमाणदुगुणो य तहिं तहिं बन्धो। अणुभागोणंतगुणो असुभाण सुभाण विवरीओ॥६॥
CARRHOIDRODKARG
॥७२॥