SearchBrowseAboutContactDonate
Page Preview
Page 1120
Loading...
Download File
Download File
Page Text
________________ | उपर्येव दलिकनिक्षेपः । सोऽप्यसंख्येयगुणतया तावद्यावद्गुणश्रेणीशिरः । ततः परतः पुनरपि प्रागुक्तक्रमेण विशेषहीनो विशेषहीनः । 'न हि' इत्यादि - हिशब्दोऽवधारणे, ततोऽयमर्थः- आनुपूर्यैव संक्रमो न भवति किन्त्वनानुपूर्व्याऽपि भवति, तथा बन्धानन्तरं षण्णामावलिकानामुपरि उदीरणा भवतीति प्राक् यदुक्तं तन्न भवति किन्तु बन्धावलिकामान्त्रातिक्रमेऽपि उदीरणा भवतीति ।। ५९ ।। ( उ० ) - एप पूर्वोक्तो दलिकनिक्षेपस्तत्कालवेद्यमानप्रकृतीनामवसेयः । इतरासामवेद्यमानानां प्रकृतीनामावलिकाबाह्यः, तासामुदयाभावादुदयावलिकायां दलिकनिक्षेपमकृत्वा तस्या उपर्येव दलिकनिक्षेपः प्रवर्त्तते इत्यर्थः । सोऽप्यसंख्येयगुणतया तावत्प्रवर्तते यावद्गुणश्रेणिशिरः । ततः परतः पुनर्विशेषहीनो विशेषहीनः । 'न ही 'त्यादि - हिशब्दोऽवधारणे, किमवधार्यते १ यः पूर्वमुपशमश्रेण्यारो हे आनुपूत्र संक्रम उक्तः स इह न भवति, किं त्वनानुपूर्व्याऽपि भवति । तथा बन्धानन्तरं षण्णामावलिकानामुपर्युदीरणा भवतीति यत्प्रागुक्तं तदपीह न भवति, किं तु बन्धावलिकामात्रातिक्रमेऽप्युदीरणा भवतीति । शेषं तु यत् यत्रस्थाने व्यवच्छिन्नं बन्धन संक्रमणा | पवर्त्तनोदीरणादेशोपशमनाऽऽगालनिधत्तिनिकाचनादि तत्तत्र स्थाने तथैव भवति ।। ५९ । | वेइज्ज माणसंजणा अहिगा उ मोहगुणसेढी । तुल्ला य जयारूढो अतो य सेसेहि तुछति ॥६०॥ (चू०) — 'वेतिन्नमाण संजलणद्धा अहिगा उ मोहगुणसेढी तुल्ला य जयारूढोति - वेतिज माणसंजलणद्वाए अहिगा मोहणिज्जगुण सेठी काल पडुच्च, तुल्ला य 'जयारूढो त्ति-जाए संजलगाए सेटिं पडिवन्नो तातो चैव तं कम्मं पत्तस्स सेसकमेहि सरिसा गुणसेढी । सेसं कम्माणं पुण आरुहंतस्स जं भणियं तारिसं चेव अणूणमतिरित्तं भाणियव्वं । कालतो अभहिगा तत्तिया य गुणसेढी कालं पहुच कोहं पत्ते । 'अतो य सेसेहिं तुल्लत्ति' - जाहे कोहं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy