________________
जाते ताव उवसामेति जाव सुहमरागचरमसमय । सुहुमरागस्स नाणावरणदसणावरणअतरातियाण अतोमुहकात्तिगो द्वितिबधी, नामगोयाणं सोलसमुहुत्तिगो द्वितिबंधो, वेयणिजस्स चउवीसमुहुत्तितो हितिबंधो, से काले | सव्वं मोहं उवसंतं भवति ॥५५॥ __(मलय०)-'गिण्हतो यत्ति-द्वितीये समये उदयप्राप्तानां किट्टीनामसंख्येयं भागं मुञ्चति उपशान्तत्वादुदये न ददातीत्यर्थः । अपूर्व | चासंख्येयभागमनुभवनार्थमुदीरणाकरणेन गृह्णाति । एवं ग्रहणमोक्षौ कुर्वन् तावज्ज्ञातव्यो यावत्सूक्ष्मसंपरायाद्धायाश्वरमसमयः। द्विती. १२ यस्थितिगतमपि दलिकं सूक्ष्मसम्परायाद्धाप्रथमसमयादारभ्य 'सर्वाद्ध'-सकलामपि सूक्ष्मसंपरायाद्धां यावत् पूर्ववदुपशमयति । समयो
| नावलिकाद्विकबद्धमपि दलिकमुपशमयति । सूक्ष्मसंपरायाद्धायाश्च चरमसमये ज्ञानावरणदर्शनावरणान्तरायाणामान्तमौहर्तिकः स्थिति. |बन्धः, नामगोत्रयोश्च षोडशमुहूर्तप्रमाणः, वेदनीयस्य च चतुर्विंशतिमुहर्तमानः। तस्मिन्नेव चरमसमये सकलमपि मोहनीयमुपशान्तम् । | ततोऽनन्तरसमये उपशान्तमोहगुणस्थानकमवाप्नोति ।। ५५ ॥
(उ०)-द्वितीयसमये उदयप्राप्तानां किट्टीनामसंख्येयं भागं मुञ्चति, तावान् भाग उपशान्त इति तमुदये न ददातीत्यर्थः । अपूर्व चासंख्येयं भागमनुभवनार्थमुदीरणाकरणेन गृह्णाति । एवं प्रतिसमयमियतो भागस्य ग्रहणमोक्षौ कुर्वता तावद्गन्तव्यं यावत्सूक्ष्मसंपरायादाचरमसमयः। द्वितीयस्थितिमपि द्वितीयस्थितिगतं दलिकमपि सूक्ष्मसम्परायाद्धाप्रथमसमयादारभ्य सर्वाद्धां-सकलामपि सूक्ष्मसम्परायाद्धां यावत् पूर्ववदुपशमयति । समयोनावलिकाद्विकबद्धमपि च दलिकमुपशमयति । सूक्ष्मसम्परायाद्धायाश्चरमसमये ज्ञानावरणदर्शनावरणान्तरायाणामान्तमौहर्तिकः स्थितिबन्धो, नामगोत्रयोश्च पोडशमुहूर्त्तप्रमाणः, वेदनीयस्य चतुर्विंशतिमुहर्तप्रमाणः, तस्मिन्नेव चरमसमये सकलमपि मोहनीयमुपशान्तं, ततोऽनन्तरसमये उपशान्तमोहगुणस्थानकमवाप्नोति ॥५५॥
दOTOKGEORNO