________________
केवलणाणावरणकेवलदसणावरणवजाणं पगतीणं एगहाणिगो बन्धो पयति । एएण विहिणा संखेजेहिं द्विति-12 बन्धसहस्सेहिं गएहिं इत्थिवेतो उवसाभितो॥४५॥ _ (मलय०) नपुंसकवेदे चोपशान्ते स्त्रीवेदं पूर्वोक्तेनैव विधिनोपमशयितुमारभते-'एविस्थि' त्ति एवं पूर्वोक्तेन प्रकारेण स्त्रीवे| दस्योपशम्यमानस्योपशमनाद्धायाः संख्येयतमे भागे गते सति घातिकर्मणां ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षाणि सं| ख्येयवर्षप्रमाणः स्थितिबन्धो भवति । इतश्च संख्येयवर्पप्रमाणात स्थितिबन्धात् अन्योऽन्यः स्थितिबन्धो घातिकर्मणां पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो भवति । अस्मादेव च संख्येयवर्षप्रमाणात् स्थितिबन्धादारभ्य देशघातिनां केवलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणानां 'उदकराजि' उदकराजिसमानं रसं बध्नाति एकस्थानकं रसं बध्नातीत्यर्थः । तत एवं स्थितिबन्धसहस्रेषु गतेषु सत्सु स्त्रीवेद उपशान्तो भवति ॥४५॥
(उ०) नपुंसकवेदे उपशान्ते सति तदनन्तरं स्थितिबन्धसहस्रेषु गतेषु पूर्वोक्तेन प्रकारेण स्त्रीवेदमुपशमयतीति तद्विध्यतिदेशं शेष| विशेषं चाह-एवं पूर्वोक्तेन प्रकारेण स्त्रीवेदे उपशम्यमाने तदुपशमनाद्धायाः संख्येयतमे भागे गते सति घातिनां ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षाणि संख्येयवर्षप्रमाणः स्थितिबन्धो भवति । इतश्च संख्येयवर्षप्रमाणात स्थितिबन्धादारभ्यान्योऽन्यः स्थितिबन्धो घातिकर्मणां पूर्वस्मात् पूर्वस्मात्संख्येयगुणहीनो भवति । अस्मादेव च संख्येयवर्षप्रमाणघातिकर्मस्थितिबन्धादारभ्य देशघातिनां-केवलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणानामुद कराजिम्-उदकराजिसमानकषायकृतं रसं बध्नात्येकस्थानकमित्यर्थः ॥ ४५॥