________________
कर्मप्रकृतिः
॥५३॥
उपशमनाकरणम्
चारित्रमोहोपशमना
| बन्धः ५ । तथोदयोऽसंप्राप्त्युदय उदीरणाख्यः सोऽपि संख्येयवार्षिको मोहस्य, उक्तं च-" उद्दीरणा य संखखमा " ६ । तथा इतो मोहनीयस्य संख्येयवार्षिकात् स्थितिबन्धात्परतोऽन्योऽन्यःस्थितिबन्धः सर्वोऽपि पूर्वस्मात्पूर्वस्मात्संख्येयगुणहीनो भवति , शेषाणां तु कर्मणामसंख्येयगुणहीनः ७। तथाऽन्तरकरणे कृते सति द्वितीये समये नपुंसकवेदं प्रोपशमयति उपशमयितुमारभतेऽसंख्येयगुणनया, इत्थं | च तं तावदुपशमयति यावदन्तश्चरमसमयः । तथाहि-नपुंसकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो द्वितीयसमयेऽसंख्येयगुणं, ततस्तृतीयसमयेऽसंख्येयगुणं, एवं प्रतिसमयमसंख्येयगुणं तावद्वाच्यं यावच्चरमसमयः। परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षयाऽसंख्येयगुणं तावत्संक्रमयति यावद्विचरमसमयः । चरमसमये तूपशम्यमानं दलिकं परप्रकृतिषु यत्संक्रम्यमाणं दलिकं तदपेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । नपुंसकवेदोपशमनारम्भप्रथमसमयादारभ्य च सर्वकर्मणामुदीरणायां दलिकं स्तोकं प्राप्यते, उदये त्वसं| ख्येयगुणम् ॥ ४३-४४॥ - एवित्थी संखतमे गयम्मि घाईण संखवासाणि । संखगुणहाणि एत्तो देसावरणाणुदगराई ॥४५॥ ___ (चू०)-'एवित्थि'त्ति-नपुंसगवेए उवसंते से काले इत्थिवेयस्स उवसामगो, ताहे चेव अप्पुवं द्वितिखण्डगं| अन्नं अणुभागवण्डगं अन्नं द्वितिबन्धं बन्धतो जहा नपुंसकवेओ उवसामिओ तेणेव विहिणा इत्थिवेयं [गुणसेढीण]] उवसामेइ । ततो हितिखण्डगसहस्सेसु गएसु 'संखतमे गयम्मित्ति-इत्थिवेयस्स उवसामणद्वाते संखेजति भागे | गते 'घाईण संखवासाणि'त्ति नाणावरणदंसणावरणन्तराईयाणं संखेजवासिगतो हितिबन्धातो अन्नो संखेज- गुणहीणो हितिबन्धो पयदृति, 'देसावरणाणुदगराई' त्ति-जं समयं संखिजवरिसगो हितिबन्धो तं समयं चेव |
॥५३॥