________________
KI
उपशमनाकरणम्
| चारित्रमोहोपशमना
मोहनीयसत्का अमोहनीयसत्का वा बध्यन्ते तासां पण्णामावलिकानां मध्ये उदीरणा न भवति, किंतु षट्स्वावलिकास्वतिक्रान्तासु । तथा कर्मप्रकृतिः 'मोहे'-मोहनीये रसबन्ध एकस्थानकः । तथा मोहनीयस्य संख्येयवार्षिक: स्थितिबन्धः संख्येयवार्षिकश्च उदीरणोदयः । संख्येयवार्षि | ॥५२॥
कात् स्थितिबन्धात् परतोऽन्योऽन्यः स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो भावी, शेषाणां तु कर्मणामसंख्येयगुSणहीनः । तथा 'पउवसमए नपुंस'त्ति-अन्तरकरणे कृते सति द्वितीये समये नपुंसकवेदं प्रोपशमयति-उपशमयितुमारभते असंख्येयगु|णतया, तं च तावद्यावदन्तश्चरमसमयः । तथाहि-नपुंसकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो द्वितीयसमयेऽसंख्ये
यगुणम् , तृतीयसमयेऽसंख्येयगुणम् , एवं प्रतिसमयमसंख्येयगुणं तावद्वक्तव्यं यावच्चरमसमयः, परप्रकृतिषु च प्रतिसमयमुपशमि| तदलिकापेक्षयाऽसंख्येयगुणं तावत्संक्रमयति यावद्विचरमसमयः। चरमसमये पुनरुपशम्यमानं दलिकं परप्रकृतिषु संक्रम्यमाणदलिकापेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । नपुंसकवेदोपशमनारम्भप्रथमसमयादारभ्य च सर्वकर्मणामुदीरणा दलिकापेक्षया स्तोका, उदयस्त्वसं.
ख्येयगुणः ॥ ४३-४४॥ न (उ०)-'द्विसमयकृतान्तरे'-उत्पत्तितदनन्तरलक्षणाभ्यां द्वाभ्यां समयाभ्यां कृतेऽन्तरे सत्यन्तरकरणे कृते सति द्वितीयसमय इत्य
र्थः, इमे सप्ताधिकारा युगपत्प्रवर्तन्ते, तथाहि-पुरुषवेदसंज्वलनानामानुपूव्र्यैव संक्रमः १ । संज्वलनलोभस्य च संक्रमाभावः २। | तथान्तरकरणे कृते सत्यनन्तरादिषु समयेषु याः प्रकृतयो मोहनीयसका अमोहनीयसका वा बध्यन्ते तासां षण्णामावलिकानां मध्ये उदीरणा न भवति, किं तु षट्स्वावलिकास्वतिक्रान्तासु, इतः पूर्व तु बद्धं बद्धं कर्म बन्धावलिकायामतीतायां प्राक्तनोदयसत्कर्मानुविद्धमुदीरणायामायाति स्म ३ । तथा मोहे मोहनीये रसबन्ध एकस्थानको भिनवो भवति । तथा संख्येयवार्षिको मोहस्य स्थिति
॥५२॥