SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ : : : : : : ००००००००००००००००००००००००००००००००० बन्धावलिका मोहनं यस्य बध्यमानप्रकृतेबन्धावलि० वर्जसस्थितिः । (संख्येयवर्षप्रमाणा) | भवति, अन्येषां चैकादशानां कपायाणामष्टानां च नोकषायाणां प्रथमा स्थितिरावलिकामात्रा । स्वोदयकालप्रमाणं च चतुणां संज्वलनानां त्रयाणां च वेदानामिदम्-स्त्रीवेदनपुंसकवेदयोरुदयकाल सर्वस्तोकः, स्वस्थाने तु मिथः समानः, ततः पुरुषवेदस्य संख्येयगुणः, ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः, ततोऽपि संज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाधिकः, ततोऽपि | संज्वलनलोभस्य विशेषाधिकः । उक्तं च पश्चसंग्रहे-"थी अपुमोदयकालो संखेज गुणो उ पुरिसवेयस्स। तस्स वि बिसेसअहिओ कोहे तत्तो वि जहकमसो" ॥ तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो न भवति तावत्संज्वलनक्रोधस्योदयः । संज्वलमानेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न भवति तावत्संज्वलनमा नस्योदयः । मायया चोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो न भवति तावत्संज्वलनमायाया उदयः। संज्वलनलोभेनोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणलोभोपशमो न भवति तावद्वादरसंज्वलनलोभस्योदयः। ततः | परं सूक्ष्मसंपरायाद्धा । तदेवमन्तरकरणमुपरितनभागापेक्षया समस्थितिकमधोभागापेक्षया चोक्तनीत्या प्रथमस्थितिप्रतियोगिकतिपयप्रक
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy