SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ | चोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो न भवति, तावत्संज्वलनमायाया उदयः । संचलनलोभे नोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणलोभोपशमो न भवति तावद्वादरसंज्वलनलोभस्योदयः। ततः परं | सूक्ष्मसंपरायाद्धा । तदेवमन्तरकरणमुपरितनभागापेक्षया समस्थितिकम् , अधोभागापेक्षया चोक्तनीत्या विषमस्थितिकमिति । यावता च | कालेन स्थितिखण्डं घातयति यद्वाऽन्य स्थितिबन्धं करोति तावता कालेनान्तरकरणमपि करोति, त्रीण्यपि युगपदारभते युगपदेव च | | निष्ठां नयति। तच्चान्तरं प्रथमस्थितेः संख्पेयगुणम् । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्चायं-येषां कर्मणां तदानी बन्ध उदयश्च विद्यते | तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदोदयारूढः पुरुषवेदस्य । येषां तु कर्मणामुदय एव | केवलो न बन्धस्तेपामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति, न द्वितीयस्थितावपि, यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य । येषां | पुनरुदयो न विद्यते किन्तु केवलो बन्धः तेषामन्तरकरणसत्कं दलिकं द्वितीयस्थितावेव प्रक्षिपति, न प्रथमस्थितौ, यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानाम् । येषां पुनर्न बन्धो नाप्युदयः तेषामन्तरकरणसत्कं दलिकं परप्रकृतिषु प्रक्षिपति, यथा द्वितीयतृतीयकषायाणाम् । 'अन्नयरे' इति आपत्वात् पुंस्त्वनिर्देश एकवचनं च । ततोऽयमर्थः-संज्वलनवेदानामन्यतरयोवेद्यमानयोः प्रकृत्योः प्रथमा स्थितिः 'कालसमा'-उदयकालसमा ॥४२॥ __ (उ०)-वीर्यान्तरायदेशघात्यनुभागबन्धानन्तरं संख्येयेषु स्थितिबन्धसहस्रेषु परिगलितेषु संयमघातिनां कर्ममामनन्तानुवन्धिव र्जानां द्वादशानां कषायाणां नवानां च नोकषायाणां 'अंतरं' ति-अन्तरकरणं करोति । तत्र चतुर्णा संचलनानामन्यतमस्य यस्य सं| ज्वलनस्योदयो, यस्य च त्रयाणां वेदानामन्यतमस्य वेदस्योदयस्तयोर्वेदकपायान्यतरयोः कर्मगोः प्रथमा स्थितिः स्वोदयकालप्रमाणा MANANDIDIOCARSHONGEa
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy