________________
द्विगुणवृद्धिस्थानानि भवन्ति । 'नाणागुणहाणिठाणाणि' त्ति-नानारूपाणि यानि गुणहानिस्थानानि-द्विगुणहानिस्थानानि तान्यपि | | पल्योपमासंख्येयभागगतसमयप्रमाणानि भवन्ति । तथाहि-उत्कृष्टाद्योगस्थानादारभ्याधोऽधोऽवतरणे सति यदा श्रेण्यसंख्येयभागगत| प्रदेशराशिप्रमाणानि योगस्थानान्युल्लवितानि भवन्ति तदाऽनन्तरेऽधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्षयार्धानि स्पर्धलाकानि पाप्यन्ते । ततः पुनरपि श्रेण्यसंख्येयभागगतपदेशराशिप्रमाणेषु योगस्थानेष्वतिक्रान्तेष्वधस्तने योगस्थानेऽर्धानि प्राप्यन्ते । Kएवं तावद्वाच्यं यावजघन्यं योगस्थानमिति द्विगुणवृद्धिस्थानतुल्यानि द्विगुणहानिस्थानानि । यानि चामूनि द्विगुणवृद्धिस्थानानि
द्विगुणहानिस्थानानि वा वानि सर्वस्तोकानि । तेभ्यः पुनरेकस्मिन् द्विगुणवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽन्तरे यानि योगस्था| नानि तान्यसंख्येयगुणानि इति ॥ १०॥ | (उ०)-तदेवं कृताऽनन्तरोपनिधा। अथ परम्परया मार्गणरूपां परम्परोपनिधां चिकीर्षुराह-प्रथमाद्योगस्थानाच्छेण्यसंख्येयभागं गत्वा गत्वोत्तरोत्तरयोगस्थाने द्विगुणानि स्पर्धकानि भवन्ति । अयं भावः-प्रथमे योगस्थाने यावन्ति स्पर्द्धकानि भवन्ति तदपेक्षया
श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि योगस्थानान्यतिक्रम्यानन्तरयोगस्थाने द्विगुणानि स्पर्द्धकानि भवन्ति । ततो योगस्थानात Kा परतस्तावन्ति योगस्थानान्यतीत्यापरस्मिन् योगस्थाने द्विगुणानि प्राप्यन्ते । एवमन्तिमयोगस्थानपर्यन्तं वक्तव्यम् । तानि च द्विगुण| द्विगुणस्पर्द्धकानि पल्यासंख्येयभागः-मूक्ष्माद्धापल्योपमस्यासंख्येयतमे भागे यावन्तः समयास्तावन्ति द्विगुणवृद्धिस्थानानि भवन्तीत्यर्थः। | 'नानागुणहाणिठाणाणि' त्ति-नानारूपाणि यानि गुणहानिस्थानानि-द्विगुणहानिस्थानानि तान्यपि पल्यासंख्येयभागगतसमयप्रमाणान्येव, ऊर्ध्वारोहणेन वृद्धिस्थानानामधोऽवतरणेन हानिस्थानानां च तौल्यात् । तथाहि-उत्कृष्टयोगस्थानादयोऽवतरणे श्रेण्यसंख्येयांश