SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३६॥ उत्कर्षतोऽपि पल्योपमसंख्येयतमभागप्रमाण एव प्रवर्तते, नाधिकः । अनिवृत्तिकरणप्रथमसमये च तस्याप्रशस्तोपशमनाकरणनिधत्ति-2 करणनिकाचनाकरणानि व्यवच्छेदमायान्ति । स्थितिघातेषु सहस्रशो गतेषु सत्सु बध्यमानप्रकृतीनां बन्धः सागरोपमसहस्रपृथक्त्वप्र- उपशमनामाणो भवति । ततोऽनिवृत्तिकरणादायाः संख्येयेषु भागेषु गतेषु सत्सु असंज्ञिपञ्चेन्द्रियबन्धतुल्यः स्थितिवन्धो भवति । तदनन्तरं करणम् स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियबन्धसमानः स्थितिबन्धः । ततो भूयोऽपि स्थितिखण्डपृथक्त्वे गते सति त्रीन्द्रियबन्धतुल्यः | स्थितिबन्धः । तत एवमेव द्वीन्द्रियतुल्यः। ततोऽप्येवमेवैकेन्द्रियबन्धतुल्यः । इत ऊवं स्थितिबन्धसहस्रेषु गतेषु सत्सु आयुर्वर्जानां चारित्रमोसप्तानां कर्मणामेकेकं यद्भवति वक्तव्यं तद् भणिष्यामि ॥३६॥ होपशमना (उ०)-उत्कृष्टमपि स्थितिकण्डकं हन्यमानं तस्य चारित्रमोहनीयोपशमकस्यानिवृत्तिकरणे प्रविष्टस्य पल्योपमस्य संख्येयतमो भागः, जघन्यमपि तस्यैतावदेव, केवलमुत्कृष्टपल्योपमसंख्येयतमभागप्रमाणस्थितिघाताजघन्योऽसौ लघुतरो वेदितव्यः । स्थितिघातेषु च सहस्रशो गतेषु सत्सु बध्यमानप्रकृतीनां बन्धः सागरोपमसहस्रपृथक्त्वप्रमाणो भवति । ततोऽनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्चावशिष्टे सत्यसंज्ञिपश्चेन्द्रियबन्धतुल्यः स्थितिबन्धो भवति । तदनन्तरं स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियबन्धतुल्यः, ततो भूयः स्थितिखण्डपृथक्त्वे गते सति त्रीन्द्रियबन्धतुल्यः, ततोऽमुनैव क्रमेण द्वीन्द्रियवन्धतुल्यः, ततोऽप्येवमेवैकेन्द्रियवन्धतुल्यः । इत ऊचं स्थितिबन्धसहस्रेषु गतेष्वायुर्वर्जानां सप्तानां कर्मणामेकैकं यद्वक्तव्यं भवति तद्भणिष्यामः ॥ ३६॥ पल्लदिवड्डविपल्लाणि जाव पल्लस्स संखगुणहाणी । मोहस्त जाव पल्लं संखज्जइभागहाऽमोहा ॥३७॥ ॥३६॥ तो नवरमसंखगुणा एकपहारेण तीसगाणमहो । मोहे वीसग हेट्ठा य तीसगाणुप्पि तइयं च ॥३८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy