SearchBrowseAboutContactDonate
Page Preview
Page 1048
Loading...
Download File
Download File
Page Text
________________ a (( उ० ) - दर्शनत्रियतमुपशमय्य किं करोतीत्याह - प्रमत्तभावे इतरस्मिँश्राप्रमत्तभावे संक्लेशविशोधिवशादद्धा परावृत्ती :- कालपरिवर्त्तनानि सहस्रशः कृत्वा चारित्रमोहनीयोपशमनाय पुनरपि त्रीणि करणानि यथाप्रवृत्तादीनि करोति, तानि च प्राग्वद्वक्तव्यानि, केव| लमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यं अपूर्वकरणमपूर्वगुणस्थाने, अनिवृत्तिकरण मनिवृत्तिवादर संपरायगु गस्थानके । अत्रापि | स्थितिघातादयः पूर्ववदेव प्रवर्त्तन्ते । नवरमिह सर्वासामशुभप्रकृतीनामबध्यमानानां गुणसंक्रमः प्रवर्त्तत इति वक्तव्यम् । अपूर्वकरणाद्धायाश्च संख्येयतमे भागे गते सति निद्राप्रचलयोर्बन्धव्यवच्छेदः । ततः प्रभूतेषु स्थितिखण्ड सहस्रेषु गतेषु सत्स्व पूर्व करणाद्धायाः संख्येया भागा गता भवन्त्येकोऽवशिष्यते । अत्रान्तरे सुरद्विकपञ्चेन्द्रियजातिवैक्रियद्विकाहारक द्विकतैजसकार्मणसमचतुरस्रवर्ण चतुष्कागुरुलघूपघातपराघातोच्छ्वासत्रस चतुष्कशु भखगतिस्थिरपञ्चकनिर्माण तीर्थकरलक्षणानां त्रिंशत्मकृतीनां बन्धव्यवच्छेदः । ततः स्थितिखण्डपृथक्त्वे गते सत्यपूर्वकरणाद्धायाश्चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यरत्यरतिभयशोकजुगुप्सानामुदयव्यवच्छेदः, सर्वकर्मणां देशोपशमनानिधत्तिनिकाचनाकरणव्यवच्छेदश्च । ततोऽनन्तरसमये तृतीयेऽनिवृत्तिकरणे प्रविशति । तत्र चेमान् वक्ष्यमाणान् विशेषान् शृणुत ॥ ३४ ॥ अन्तोकोडाकोडी संतं अनियट्टिणो य उदहीणं । बन्धो अन्तोकोडी पुव्वकमा हाणि अप्पबहू ||३५|| (०) — 'अंतोकोडाकोडी संतं' ति-अणियहीकरणस्स पढमसमते अंतोकोडाकोडी संतं 'अणियहिणो उ उदहीणं' ति-अणियहीकरणस्स पढमसमते अंतोकोडाकोडीद्वितियं संतकम्मं बंधो वि तस्स पढमसमते अंतोकोडी भवति । 'पुत्र्वकमा हाणि'त्ति-पुव्वकमेणेव परिहानि । कहं ? भन्नति - द्वितिबंधे पुन्ने पलिओव
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy