________________
कर्मप्रकृतिः ॥३४॥
उपशमनाकरणम्
चारित्रमोहोपशमना
तयोमिथ्यात्वसम्यमिथ्यात्वयोः प्रथमां स्थितिमावलिकामात्रां करोति, सम्यक्त्वस्य चान्तर्मुहूर्तप्रमाणां, उत्कीर्यमाणं च दलिकमन्तरकरणसत्कं त्रयणामपि सम्यक्त्वप्रथमस्थितौ प्रक्षिपति । अयमेवात्र विशेषः । शेष उपशमनाविधिरशेषोऽपि प्राग्वदेव करणत्रयानुगोऽबसेयः । अत्र मुखं व्यादाय स्वपीतीत्यत्रेव क्त्वाप्रत्ययस्य व्यत्ययेन प्रयोग इति प्रथमस्थितिमावलिकां कृत्वा पूर्व दर्शनमोहनीयमुपशमयतीति संमुखोऽर्थः । अन्तरकरणप्रवेशसमयादारभ्यान्तर्मुहूर्ततिक्रान्ते गुणसंक्रमावसाने चात्र विध्यातसंक्रमः सम्यक्त्वस्य भवति, विध्यातसंक्रमण मिथ्यात्वसम्यमिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रविशतीत्यर्थः। उक्तं च-"पढमुवसमं व सेसं अंतमुहुत्ताउ अस्स विज्झाओ इति ॥३३॥ अद्धापरिवित्ताऊ पमत्त इयरे सहस्ससो किच्चा । करणाणि तिन्नि कुणए तइयविसेसे इमे सुणसु॥३४॥
(चू०)-'अद्धा पडिवत्तीतो पमत्तइयरे सहस्स सो किच्च'त्ति एवं संकिलेसविसोहीए पमत्तअपमत्तभावे सहस्ससो काउं 'करणाणि तिन्नित्ति चरित्तमोहउवसामणाणिमित्तं तिन्नि करणाणि करेति-अहापवत्तकरणं, अपुवकरणं अनियट्टीकरणं । अहापवत्तपरूवणा जहा हेहा अपुवकरणहितिघायादि सव्वे निरवसेसा भाणियव्वा । 'तइयविसेसे इमे सुणसु-ततियं अणियद्दिकरणं, तस्स जे विसेसा ते सुणसु ॥३४॥
(मलय०)-दर्शनत्रितयमुपशमय्य किं करोतीत्यत आह-'अद्ध'त्ति-अद्धापरिवृत्तीः संक्लेशविशोधिवशात् प्रमत्तभावे इतरस्मिश्चाप्रमत्तभावे कालपरावृत्तीः सहस्रशः कृत्वा चारित्रमोहनीयोपशमनाय त्रीणि करणानि यथाप्रवृत्तादीनि करोति । तानि च प्रागिव वक्तव्यानि । केवलं तृतीयेऽनिवृत्तिकरणे इमान् वक्ष्यमाणान् विशेषान् शृणुत ॥३४॥
॥३४॥