________________
मध्ययनम्. गा २६४
m
पपाते समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाश प्रकटं वदतीति प्रकाशवादी। सङ्घस्य यथा-बहवः श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः ? इत्यादि । साधूनां यथा-"अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुणपि । खणमेत्तपीइरोसा, गिहिवच्छलगा य संचइआ ॥१॥” अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्तिनः गुरुभ्योऽपि पृथक् विहारित्वात् , क्षणमात्रप्रीतिरोषाः, अयं भावः-मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोषं न क्षमन्ते ततो दोषान्वेषी क्षणमात्रप्रीतिरोपा एते इति वक्ति, तथा गृहिवत्सलका विरक्ता अपि गृहिणां धर्म प्रतिपादयन्तीति, सञ्चयिकाश्चोपधिधारित्वात् , इत्थं ज्ञानादीनामवर्णवादी । तथा मायी खखभावनिगूहनादिमान् , आह च-"गूहइ आयसहावं, घायइ अ गुणे परस्स संते वि । चोरोच सच्चसंकी, गूढायारो वितहभासी ॥१॥” ईदृशः किल्विपिकी भावनां करोति ॥ २६३ ॥ इदानीं विचिप्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽप्यासुरीहेतूनाहमूलम्-अणुबद्धरोसपसरो,तह य निमित्तम्मि होइ पडिसेवी।एएहिं कारणेहिं, आसुरिअंभावणं कुणइ
व्याख्या-अनुबद्धोऽव्यवच्छिन्नो रोषप्रसरो यस्य स तथा, तत्वरूपं चै-"निचं बुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेण्हपि ॥१॥" अत्र 'दुवण्हपित्ति' द्वयोः खपरयोरपरा
उ०१०३