SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ॥६०५॥ हि हिमवतः पूर्वापरप्रान्तयोश्चतसृषु विदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशता जापत्रिंशन्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्ध्यावगाहनया योजनशतचतुष्कायायाम- लामध्ययनम् विस्तारा द्वितीयादयः षट् । एषां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभाषिको २ वैषाणिको३ लाङ्गुलिकः ४ इति नामानि । द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कुलीकर्णाः ४ । तृतीयस्य | आदर्शमुख १ मेषमुख २ हयमुख ३ गजमुखाः ४ । चतुर्थस्याश्वमुख १ हस्तिमुख २ सिंहमुख ३ व्याप्रमुखाः ।। पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । पष्ठस्य उल्कामुख १ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तद्देहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् | "अंतरदीवेसु नरा, धणूअसयसिआ सया मुइआ। पालंति मिहुणधम्म, पलिअस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्टकरंडयाणं, मणुआण तेसिमाहारो। भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ॥२॥" एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविव-15 ॥६०५॥ दक्षितत्वान्न सूत्रेऽष्टाविंशतिसंख्याविरोध इति ध्येयम् ॥ १९५॥ मूलम्-समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ।१९६॥ 40SAAMSANCH4
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy