________________
व्याख्या-कामेषु अनुगृद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात् , दुःखं सर्वस्याद्वात्रिंशलोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि, तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानु- मध्ययनम्.
गा२०-२१ गृद्धिः ॥ १९ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते__ मूलम्-जहा य किंपागफला मणोरमा, रसेण वपणेण य भुजमाणा ।
ते खुदए जीविअ पच्चमाणा, एओवमा कामगुणा विवागे ॥ २०॥ व्याख्या-यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दाद्गन्धादिना च भुज्यमानानि, तानि लोकप्रतीतानि 'खुद्दएत्ति' आपत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भावः ॥ २० ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह
मूलम्-जे इंदिआणं विसया मणुण्णा, न तेसु भावं निसिरे कयाई।
न यामणुण्णेसु मणंऽपि कुज्जा, समाहिकामे समणे तवस्सी ॥ २१॥ व्याख्या-ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं अभिप्रायं अपेगम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि