SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५४४॥ एकत्रिंशमध्ययनम्. गा २० मिति भणनम् ॥ २५ ॥ येनैवैश्वर्यं नीतस्तस्यैव वित्तहरणम्॥ २६ ॥ यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ॥ २७ ॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ २८॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ २९ ॥ किं कामगईभैर्देवैरित्यादिको देवानामवर्णवादः ॥ ३०॥ इति रूपेषु यो भिक्षुर्यतते त्यागादिना ॥१९॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले २० | व्याख्या-सिद्धानामतिशायिनो गुणाः सिद्धातिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २९ ऽसङ्गत्वा ३०. जन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञाना वरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा लायर्योगाः शुभमनोवाकायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ आचार्येणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनैव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु दृढधर्मता कार्या ॥३॥ ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ॥ ४ ॥ ग्रहणासेवने शिक्षे आसेवितव्य ॥ ५ ॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ ६॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ ४॥ अलोभता ॥८॥ परिपहादिजयः ॥९॥ आर्जवम् ॥१०॥संयमविषये शुचित्वम् ॥ ११ ॥ सम्यक्त्वशुद्धिः ॥ १२ ॥ चित्तसमाधिः ॥ १३॥ आचारपरिपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥ १५॥ धृतिप्रधाना मतिधैं २४ ॥५४४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy