________________
एकत्रिंशमध्ययनम्. गा ६-९
मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअंतहा ।जे भिक्खू वजई निच्चं, से न अच्छइ मंडले ६ ___व्याख्या-विकथाकपायसंज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ ६ ॥ मूलम्-वएसुइंदियत्थेसु, समिईसु किरियासु ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥७॥ ___ व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्राद्वेषिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यक्पालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेपु, परिहाराच क्रियासु यत्नं कुरुते ॥७॥
मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे ।।
जे भिक्खू जयई निच्चं, से न अच्छह मंडले ॥८॥ | व्याख्या-लेश्यासु कृष्णादिषु षटूसु, षट्सु कायेषु पृथिव्यादिषु, पढ़े षट्परिमाणे आहारकारणे पूर्वोक्ते यो भिक्षुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते ॥ ८॥ मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥
१२