________________
***
॥ अथैकत्रिंशमध्ययनम् ॥
एकत्रिंशमध्ययनम्. गा १-३
ॐॐॐॐ5%%
॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तचरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं। जं चरित्ता बढ़ जीवा, तिण्णा संसारसागरं ॥१॥ __ व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु सुखावहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रैः मूलम्-एगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥२॥
व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्त्तते, चकारौ समुच्चये ॥२॥ मूलम्-रागद्दोसे अ दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निच्चं, से न अच्छइ मंडले ॥३॥