________________
उत्तराध्ययन
॥ ५१० ॥
१५
१८
२१
२४
भावं परहितचिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभय| हेत्वभावात् ॥ १७ ॥ १८ ॥ एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह-
मूलम् — सज्झाएणं भंते! जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ २० ॥
व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च - " कम्ममसंखिजभवं, खबेइ अणुसमयमेव उवउत्तो ॥ अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं" ॥ १८ ॥ २० ॥ तत्रादौ वाचना कार्येति तामाह-
मूलम् - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयइ, सुअस्स अणासायणाए वहति, सुअस्स आणसायणाए वहमाणे तित्थधम्मं अवलंबइ, तित्थधम्मं अवलंवमाणे महानिज्जरे महापज्जवसाणे भवइ ॥ १९ ॥ २१ ॥
व्याख्या -- वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसजणाए वहूति" तत्र श्रुतस्यानुपअने अनुवर्त्तने वर्त्तते, कोऽर्थः ? श्रुतस्याव्यवच्छेदं करोति ] ततः श्रुतस्यानाशा तनायामनुपअने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः
एकोनत्रिंश मध्ययनम्.
(२९)
प्र १८-१९
॥५१०॥