________________
१२
| मूलम् - अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो । नाणं च दंसणं चेव, चरित्तं चैव निच्छए ॥ ३३ ॥ व्याख्या - अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव स्यादेव प्रतिज्ञाभ्युपगमः, प्रक्रमात् पार्श्ववीरयोरेकैवेति शेषः । का प्रतिज्ञेत्याह- 'मोक्खसन्भूयसाहणोत्ति' मोक्षस्य सद्भूतानि तात्त्वि | कानि साधनानि कारणानि मोक्षसद्भूतसाधनानि, लिङ्गव्यत्ययो विभक्तिव्यत्ययो वचनव्यत्ययश्चेह सर्वत्रापि प्राकृतत्वात् । कानीत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैव, कोऽर्थः ? ज्ञानाद्येव मुक्तिसाधनं न तु लिंगं, निश्चये निश्चयनये विचार्ये, न तु व्यवहारे । श्रूयते हि भरतादीनां लिंगं विनापि केवलोत्पत्तिः, इति तत्त्वतो लिङ्गस्याकिंचित्करत्वान्न तद्भेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ॥ ३३ ॥
मूलम् - साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ३४ ॥
व्याख्या–प्राग्वन्नवरं, महात्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास्य तेषामेव व्युत्पत्तये जाननपि अन्यदपि वस्तुतत्त्वं पृच्छन् केशीदमाह ॥ ३४ ॥
मूलम् - अणगाण सहस्साणं, मज्झे चिट्ठसि गोअमा ! । ते अ ते अभिगच्छंति, कहं ते निज्जिआ तुमे १३५॥
त्रयोविंशमध्ययनम् गा ३३-३५