SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ एकविंशम|ध्ययनमः गा १५-१६ निति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं 'आहुत्ति' आर्षत्वाद्र्यात् ॥ १४ ॥ तर्हि किं कुर्यादित्याहमूलम्-उवेहमाणो उ परिवएजा, पिअमप्पिअं सब तितिक्खएजा। न सब सवत्थऽभिरोअइज्जा, न यावि पूअं गरहं च संजए ॥१५॥ व्याख्या-उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत् , तथा प्रियमप्रियं सर्व तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत् , यथादृष्टाभिलाषुको माभूदिति भावः । न चापि पूजां, गहीं च परनिन्दां, अभिरोचयेदिति योगः ॥ १५॥ ननु भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह मूलम्-अणेग छंदा मिह माणवेहि, जे भावओ संपकरेइ भिक्खू । ____ भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ | व्याख्या-अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा भीषणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमा रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं,दिव्या मानुष्यका अथवा तैरश्चा उपसर्गाः इति शेषः ॥१६॥ तथा SEARCHSHALARASANG
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy