________________
एकविंशम
ध्ययनम् ४ गा१०-१२
मूलम्-संबुद्धो सो तहिं भयवं, परमं संवेगमागओ।आपुच्छऽम्मापिअरो, पवए अणगारिअं॥ १०॥ __ व्याख्या-एवं ध्यायन् सम्बुद्धः समुद्रपालः 'तहिं' तत्र प्रासादालोकने, आपृच्छय मातापितरौ 'पवएत्ति' प्रात्रा- जित् प्रतिपेदेऽनगारितामिति सूत्रदशकावयवार्थः, शेषं व्यक्तं, एवमग्रेपि ॥१०॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाहमूलम्-जहित्तु संगं च महाकिलेसं, महंतमोहं कसिणं भयावहं ।
परिआयधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ॥११॥ व्याख्या-हित्वा त्यक्त्वा सङ्ग खजनादिसम्बन्धं, चः पृत्तौ, महाक्लेशं महादुःखं, महान्मोहः ख्यादिविषयोऽज्ञानरूपो वा यस्मात् स महामोहस्तं, कृत्स्नं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावह, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, चः प्रत्तौ, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः। पर्यायधर्ममेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीपहानिति परीषहसहनानि चाभिरोचयेदिति योगः॥ ११॥ तदनु यत्कार्यं तदाहमूलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च ।
पडिवज्जिआ पंच महत्वयाई, चरिज धम्म जिणदेसि विऊ ॥ १२॥