________________
॥ अथ विंशतितममध्ययनम् ॥
॥ अर्हम् ॥ उक्तमकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्मतोक्ता, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्ब न्धेनायातस्यास्येदमादिसूत्रम् -
मूलम् - सिद्धाण नमोकिच्चा, संजयाणं च भावओ । अत्थधम्मगईं तच्चं, अणुसिद्धिं सुणेह मे ॥ १ ॥
व्याख्या - सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्तया । अर्थ्योहितार्थिभिः प्रार्थ्यः स चासौ धर्मश्वार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्ध्यधर्मगतिस्तां, 'तचंति' तथ्यामविपरीतार्थी, अनुशिष्टिं शिक्षां शृणुत, मे मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥ १ ॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाह
मूलम् - पभुअरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ॥ २ ॥ व्याख्या -- प्रभूतानि रत्नानि वैडूर्यादीनि सारगजाश्वादिरूपाणि वा यस्य स तथा, 'विहारजतंति' विहारयात्रया
*%%ল
विंशतितममध्ययनम्
गा १-२