SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ षोडशमध्ययनम् गा १३-१५ BACHARESSAAAAA%74% व्याख्या-स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि ख्यादिभिरेव सहावस्थानानि, हास्याधुपलक्षणश्चैतत् ॥ १२॥ मूलम्-गत्तभूसणमिट्टं च, कामभोगा य दुज्जया। नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥१३॥ ___ व्याख्या-गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशब्दौ, भोगाश्च गन्धाद्याः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्यादेच, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकांक्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ॥ १३॥ अथ निगमयितुमाहमूलम्-दुजए कामभोगे अ, निच्चसो परिवज्जए । संकटाणाणि सवाणि, वजिजा पणिहाणवं ॥१४॥ ___ व्याख्या--दुर्जयान् कामभोगान् नित्यं परिवर्जयेत् , प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत् , प्रणिधानवानेकाग्रमनाः ॥ १४ ॥ एतद्वर्जकश्च किं कुर्यादित्याहमूलम्-धम्माराम चरे भिक्खू , धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेर समाहिए ॥१५॥ __ व्याख्या-धर्म एव दुःखसन्तापतसानां निवृत्तिहेतुत्वादिष्टफलदानाच आराम इव धर्मारामस्तत्र चरेत् प्रवर्तेत भिक्षुर्मुनिः, धृतिर्मनःखास्थ्यं तद्वान् , धर्मसारथिरन्येषामपि धर्म प्रवर्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy