SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ AAऊ उत्तराध्यता ॥ अथ षोडशमध्ययनम् ॥ अध्य०१६ यनसूत्रम् ॥ॐ॥ व्याख्यातं पश्चदशमध्ययनमथषोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तवतो ॥२६..॥ | ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्| मूलम्-सुअं मे आउसं! तेणं भगवया एवमक्खायं,-इइ खल्ल थेरेहिं भगवंतेहिं दस बंभचेरसमाहि-12 हाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तब- 5 है भयारी सया अप्पमत्ते विहरिजा ॥१॥ व्याख्या-सुधर्मा स्वामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन 'भगवता' ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवम् 'आख्यातं' कथितं, कथम् ? इत्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथा 'इह' प्रवचने 'खलु' निश्चये 'स्थविरैः' गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भावः-नैषां स्थविराणामियं स्वमनीषिका, किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येव विशिनष्टि-'ये' इति यानि भिक्षुः 'श्रुत्वा' आकर्ण्य 'निशम्य' अर्थतोवधार्य "संजमबहुले" सि प्राकृतत्वागहुल:-प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलः संवरः-आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहुलसमाधिः तत्र समाधिः-मनःस्वास्थ्यं 'गुप्तो' मनोवाकायैस्तत A-PROCEA5- ASHAGAR २६०॥ A5%-55
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy