________________
उत्तराध्ययन ॥४७
द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् २१०-२२४
मती सोऽथ, परिणिन्ये शुभेऽहनि ॥१०॥ व्यसृजजितशत्रुस्ता-पान् सत्कृत्य कृत्यवित् ॥ प्रीतिमत्या रमन्त्रीत्या, तस्थौ तत्रापराजितः ॥ ११॥ हरिणन्दिमहीभर्तु-र्दूतस्तत्रागतोऽन्यदा ॥ पित्रोः कुशलमस्तीति, तं चालिंग्य स पृष्टवान् ॥ १२ ॥ दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् ॥ तव प्रवासदिवसा-नतूद्वान्ति दृशस्तयोः ॥१३॥ त्ववृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् ॥ तन्निजं दर्शनं दत्वा, तावद्यापि प्रमोदय ॥ १४ ॥ तदाकर्योत्सुकः पित्रो-दर्शनायापराजितः ॥ आपृच्छय श्वशुरं प्रीति-मत्या सह ततोऽचलत् ॥१५॥ तेन पूर्वमुढा या-स्ता आदाय खनन्दनाः ॥ नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ॥१६॥ खेचरैर्भूचरैश्चापि, स सैन्यैर्थिवैर्वृतः॥ भार्याभिः शोभितः षभिः, सोऽगात्सिंहपुरं क्रमात् ॥ १७॥ हरिणन्दी तमायान्तं, श्रुत्वाभ्यागात्प्रमोदभाक् ॥ तं चानमन्तमालिंग्य, चुम्बन्मौलौ मुहुर्मुहुः ॥ १८ ॥ नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः ॥ स्नुषाश्च प्रीतिमत्याद्या, नेमुः श्वशुरयोः क्रमान् ॥ १९ ॥ उक्तं विमलबोधेन, श्रुत्वा तदृत्तमादितः ॥ पितरौ प्रापतुहर्ष, तत्संगोस्थमुदोऽधिकम् ॥ २०॥ विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् ॥ तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धवान् ॥ २१ ॥ तुजैरहद्हैर्भूमि, भूषयन्भूषणैरिव ॥ ततोऽपराजितो/श-श्चिरं राज्यमपालयत् ॥ २२॥ स राजाऽन्येधुरुधाने, गतो मूर्त्या जितस्मरम् ॥ वृतं मित्रर्वधूभिश्च, महेभ्यं कश्चिदैक्षत ॥ २३ ॥ गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् ॥ तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ॥ २४ ॥ असौ समुद्रपालस्य, सार्थेशस्य
UTR-3