SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४१५॥ * मूलम्-कंदप्पकुक्कुआई, तह सीलसहावहासविगहाहि । विम्हायंतो अपरं, कंदप्पं भावणं कुणइ ॥२६१॥ * पत्रिंश मध्ययनम्. व्याख्या-कन्दपकौकुच्ये कुर्वन्निति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुदिनापि सह गा२६१निष्ठरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च-“कहकहकहस्स हसणं, कंदप्पो अणिहुआ य २६२ आलावा । कंदप्पकहाकहणं, कंदप्पुवएससंसा य ॥१॥" कौकुच्यं द्विधा-कायेन वाचा च, तत्र कायकौकुच्यं यत्वयमहसन्नेव भ्रनयनादिविकारांस्तथा करोति यथान्यो हति, यदुक्तं-"भूनयणवयणदसणच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥१॥" तथा तजल्पति येनान्यो हसति नानाविधजीवरुतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कोक्रुच्यं, यदाह-"वायाए कुकुइओ, तं जंपइ जेण हस्सए अन्नो । नाणाविहजीवरुए, कुबइ मुहतूरए चेव ॥१॥" 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुख विकाराधिकं खरूपं, हासश्च अट्टहासादिः, विकथाश्च परविस्मापकविविधालापकलापरूपाः शीलस्वभावहास्यविकथास्ताभिः विस्मापयन् परमन्यं । 'कंदप्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप्पी तां भावनां तद्भावाभ्यासरूपां करोति॥ मूलम्-मंता जोगं काउं, भूई कम्मं च जे पउंजंति।सायरसइड्डिहेडं,अभिओगं भावणं कुणइ ॥ २६२ ॥ २ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy