________________
उत्तराध्ययन
॥ ३१ ॥
॥ अथ द्वाविंशमध्ययनम् ॥
॥ॐ॥ उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम् — मूलम् — सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खण संजु ॥ १ ॥ व्याख्या - राजलक्षणानि चक्रस्वस्तिकाङ्कुशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥ १ ॥ मूलम् - तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासि दोपहंपि दो पुत्ता, इट्ठा रामकेसवा ॥२॥ व्याख्या– 'दुवे आसित्ति' द्वे अभूतां 'तासिंति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ २ ॥
मूलम् — सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नामं, रायलक्खण संजु ॥ ३ ॥ व्याख्या - इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ ३ ॥
मूलम् — तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे ॥ ४ ॥
द्वाविंशम - ध्ययनम्
गा १-४
UTR-3