________________
उत्तराध्ययन ॥३१७॥
द्वात्रिंशमध्ययनम्. गा १०५
व्याख्या-कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्पं शिष्यादिकं नेच्छेत्सहायलिप्सुममायं विश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् , तथा पचादिति बताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात् अन्यथा वा । तपः प्रभावमिहैवामोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यते ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपद्यते, इन्द्रियाणि चौरा इव धर्मघनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाघ्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च ब्रुवतोऽयमाशयः-तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोषः । एतेन च रागस्य हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतयो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥ १०४ ॥ उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह
मूलम्-तओ से जायंति पओअणाइं, निम्मजिउं मोहमहण्णवंमि ।
सुहेसिणो दुक्खविणोअणट्टा, तप्पच्चयं उज्जमए अ रागी ॥ १०५ ॥ व्याख्या-ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि निम्मजिउंति' निम
UTR-3