________________
उत्तराध्ययन ॥२३४॥
एकोनत्रिंशमध्ययनम्. (२९) | प्र६०
रन्ते संसारकान्तारे न विनश्यति न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवा) दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्त्तते यः स ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि विनयश्च तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानविनयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा खसमयपरसमययोः सङ्घातनीयः प्रधानपुरुषतया मीलनीयः खसमयपरसमयसलातनीयो भवति, खसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ ५९॥६॥ मूलम्-दसणसंपन्नयाए णं भंते! जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं
करेइ, परं न विजाइ, अणुत्तरेणं णाणणं दंसणणं अप्पाणं संजोएमाणे सम्म भावेमाणे
विहरइ॥६०॥ ६२॥ व्याख्या-दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन
UTR-3