________________
उत्तराध्ययन
॥ २२२ ॥
१५
१८
२१
२४
व्याख्या—आहारप्रत्याख्यानेन जीविते आशंसा अभिलाषो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाज्जीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ॥ ३५ ॥ ३७ ॥ एतत्प्रत्याख्यानत्रयं कषायाभाव एव सफलमिति तत्प्रत्याख्यानमाह
मूलम् — कसाय पञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपच्चक्खाणेणं वीयरागभावं जणयइ, वीरागभावं पडवणे अ णं जीवे समसुहदुक्खे भवइ ॥ ३६ ॥ ३८ ॥
व्याख्या – कषायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति तं च प्रतिपन्नो जीवः समे रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ॥ ३६ ॥ ३८ ॥ निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाह
मूलम् — जोगपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपच्चक्खाणेणं अजोगित्तं जणयइ, अजोगी णं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निज्जरेइ ॥ ३७ ॥ ३९ ॥
व्याख्या - योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म्म न
एकोनत्रिंशमध्ययनम्.
(२९)
प्र ३६-३७
UTR-3