________________
॥ अथ अष्टाविंशमध्ययनम् ॥
उत्तराध्ययन ॥१७९॥
अष्टाविंशमध्ययनम्.
॥ अहम् ॥ उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता स्वीकार्येत्युक्तं, अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्-मोक्खमग्गगई तच्चं, सुणेह जिणभासि । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥
व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः ? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥१॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, तत्र मोक्षमार्ग तावदाह
UTR-3