________________
उत्तराध्ययन ॥१६४॥
षड्विंशमध्ययनम्. (२६) गा ३४
मूलम्-निग्गंथो धिइमंतो, निग्गंथी वि न करिज छहिं चेव ।
ठाणेहिं तु इमेहिं, अणतिकमणा य से होई ॥ ३४ ॥ व्याख्या--निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान्, निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्रक्रमः।षइभिरेव स्थानैः, तुः पुनरर्थे एभिर्वक्ष्यमाणैः, कुतः ? इत्याह-'अणइक्कमणायत्ति' अनतिक्रमणं संयमयोगानामनुल्लंघनं, चशब्दो यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि ततिक्रमसम्भवः ॥ ३४ ॥ स्थानकषट्कमाहमूलम्-आयके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु। पाणिदया तवहेडं, सरीरवोच्छेअणटाए ॥३५॥
व्याख्या--आतङ्के ज्वरादौ १। उपसर्गे दिव्यादौ, व्रतमोक्षाय वजनादिकृते वा २। उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा सहनं तया, केत्याह-ब्रह्मचैर्यगुसिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३ । तथा 'पाणिदयातवहेउंति' प्राणिदयाहेतोर्वर्षादौ अपकायादिजीवरक्षायै ४। तपश्चतुर्थादि तद्धेतोश्च ५ । शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६ । भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ ३५ ॥ भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्रं पर्यटेदित्याह
UTR-3