________________
उत्तराध्ययन
विंशतितममध्ययनम्. गा ४४-४५
व्याख्या--कुशीललिङ्गं पार्श्वस्थादिवेषमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिरं रजोहरणादि 'जीवित्ति' जीविकायै जठरभरणार्थ बृंहयित्वा, इदमेव प्रधानमिति ख्यापनेनोपबृंय, अत एवासंयतः सन् 'संजयलप्पमाणेत्ति' संयतमात्मानं लपन् भाषमाणः, विनिघातं विविधाभिघातरूपमागच्छति स चिरमप्यास्तां खल्पकालं नरकादाविति भावः॥४३॥ इहैव हेतुमाह
मूलम्--विसं पिवित्ता जह कालकूडं, हणाइ सत्थं जह कुंग्गही।
एसेव धम्मो विसओववण्णों, हणाइ वेआल इवाविवण्णो ॥४४॥ व्याख्या-विषं 'पिवित्तत्ति' आषत्वात् पीतं, यथा कालकूटं 'हणाइत्ति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सितप्रकारेण गृहीतं, 'एसेवत्ति' एष एवं विषादिवत् धर्मः साधुधर्मो विषयोपपन्नः शब्दादिविषयलाम्पव्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्नो मंत्रादिभिरनियंत्रितः साधकमिति गम्यम् ॥४४॥ मूलम्-जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहलसंपगाढे।
कुहेडविज्जासवदारजीवी, न गच्छई सरणं तम्मि काले ॥४५॥ व्याख्या-यो लक्षणं खप्नं च प्रयुंजानो व्यापारयन् , निमित्तं भौमादि, कौतुकं चापत्याद्यर्थ स्नानादि, तयोः संप्रगाढः प्रसक्तो यः स तथा । कुहेटकविद्या अलिकाश्चर्यकारिमंत्रतंत्रज्ञानात्मिकास्ता एवं कर्मबन्धहेतुत्वादाश्रवद्वा
UTR-3