________________
उत्तराध्ययन
विंशतितम
मध्ययनम् गा३९-४०
न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ ३८॥ तामेव दर्शयति
मूलम्-जो पवइत्ताण महत्वयाइं, सम्मं च नो फासयई पमाया।
अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ व्याख्या-यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ॥ ३९॥ मूलम्-आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहेसणाए ।
आयाणनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ॥ ४० ॥ व्याख्या-आयुक्तता सावधानता यस्य नास्ति काचिदतिखल्पापि । 'आयाणेत्यादि' लुप्तविभक्तिदर्शनादादाननिक्षेपयोरुपकरणग्रहणन्यासयोः, तथा जुगुप्सनायां परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स मुनिर्वीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यक्दर्शनादिकं मुक्तिपथम् ॥४०॥ तथा च
UTR-3