________________
उत्तराध्ययन
॥ ११६ ॥ १५
१८
२१
२४
व्याख्या - धम्मेत्यादि - धर्मशिक्षायै धर्माभ्यास निमित्तं कन्थकमिव जात्याश्वमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ॥ ५८ ॥
मूलम् - साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ५९ ॥ व्याख्या - [ प्राग्वत् ] ॥ ५९ ॥
मूलम् - कुप्पहा बहवो लोए, जेहिं नासंति जंतुणो । अंद्धाणे कह वहंतो, तं न नस्ससि गोअमा १६०॥
व्याख्या - कुपथा उन्मार्गा बहवो लोके यैः कुपथैर्नश्यन्ति सन्मार्गाद्धश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावासन्मार्गे 'कहति' कथं वर्त्तमानस्त्वं न नश्यसि ? न सत्पथाच्यवसे ? हे गौतम ! ॥ ६० ॥ गौतमः प्राहमूलम् - जे अ मग्गेण गच्छंति, जे अ उमग्गपट्टिआ। ते सवे विइआ मज्झं, तो न नस्सामहं मुणी ! ॥ ६१ ॥ व्याख्या - ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान्न नश्याम्यहं मुने ! ॥ ६१ ॥
मूलम् - मग्गे अ इति के बुत्ते, केसी गोअममब्बवी । तओ केसीं बुवंतं तु, गोअमो इणमब्बवी ॥ ६२ ॥ 'व्याख्या - ' मग्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ ६२ ॥
त्रयोविंशमध्ययनम्.
(२३)
गा ५९-६२
_UTR-3___