SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ "शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीथिकव्रजरजःपुजैकपाथोधराः । पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैर्वैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ॥१६॥ विनेयास्तेषां च प्रसूमरयशःपूरितदिशः, श्रुतं दत्त्वा माहग्जडजनमहानुग्रहकृतः । महोपाध्यायश्रीमुनिविमलपादाः समभवन् , भवोदन्वन्मज्जजननिवहबोहित्थसदृशाः ॥ १७ ॥ तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखद्वत्तिम् । खपरावबोधविधये खल्पधियामपि सुखावगमाम् ॥ १९॥" इत्येतत्पाठनिर्वर्णनेन बृहत्तपागच्छीयश्रीमद्विजयदानसूरिप्रशिष्यमहोपाध्यायश्रीमुनिविमलगणीनां शिष्यैर्महोपाध्यायश्रीभावविजयगणिभिरेषा वृत्तिर्विहितेति सुनिश्चितमेव । एते वाचंयमशिरोमणयः कदाभूवन् ! इति विचारे जायमाने प्रस्तुतवृत्तिप्रशस्तिगतेनैतन्महाशयविरचितचम्पकमालाप्रशस्तिगतेन च "निधिसुरैसवसुधामितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादशै खयमेव प्रापयसिद्धिम् ॥ २०॥" "सिद्धिगर्गनमँनिचन्द्रप्रमितेऽब्दे विजयदशमिकासुतिथौ । विद्यापुरे वितेने कथाममुं सोऽर्थितः प्राज्ञैः ॥२॥" इत्यनेन पद्यद्वये कनेनैतयोरनन्तरोक्तग्रन्थयोर्यो निर्माणकालः स एवामीषां महोपाध्यायानां सत्तासमय इति । एतत्संशोधनसमये चत्वारि पुस्तकानि संप्राप्तानि । तत्राद्ये 'क' 'ख' संज्ञके द्वे पुस्तके न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिवर्यसंस्थापितपञ्चनद ( पञ्जाब) देशान्तर्गत-'अम्बाला' 'जंडियाला' नगरज्ञानभण्डारसत्के। तयोः 'क' संज्ञकं शुद्धपायं प्राचीनञ्च । तृतीयं तु 'ग' UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy