SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सप्तमाध्य. यनम् (७) ।। ३७९ ।। मूलम्-वेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया। उविंति माणुमं जोणिं, कम्मसच्चा हु पाणिणो ॥२०॥ ___ व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चउहि ठाणेहिं । जीवा मणुस्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति" ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतञ्च लौकिका अप्येवमाहुः-"विपधुच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥१॥" आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुवात्तस्य । यत्तदोनिलाभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषीं योनि, किमित्येवमत आह-'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वाद्यत्यये कर्मसत्याः प्राणिनः इति सूत्रार्थः ॥ २०॥ अथ लब्धलाभोपनयमाहमूलम्-जेसिं तु विउला सिख्खा, मूलिअंते अइत्थिआ।सीलवंता सविसेसा,अदीणा जंति देवयं ॥२१॥ व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'अइत्थिअत्ति' अतिक्रम्योल्लंघ्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुण UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy