SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन षष्ठमध्ययनम् (६) ॥३६१ ॥ मूलम्-एसणासमिओ लजू , गामे अणिअओ चरे । अप्पमत्तो पमत्तेहि, पिंडवायं गवेसए ॥१७॥ _ व्याख्या-एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान् , ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत् , अनेनापि निरपेक्षतवोक्ता, चरंश्च किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयदिति सूत्रार्थः ॥ १७ ॥ इत्थं संयमखरूपप्ररूपणद्वारा निर्ग्रन्थखरूपमुक्तं, न चैतन्निजमतिकल्पितमित्याह मूलम्-एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥१८॥ व्याख्या-एवमनेन प्रकारेण 'से' इति, स खामी ‘उदाहुत्ति' उदाहृतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यदाहुः"जं सामण्णग्गहणं, दंसणम विसेसि नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता, ततश्योपयोगवल्लब्धिद्वयमपि मिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पौनरुत्यं । अर्हन् तीर्थकरो, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy