________________
॥ २७२॥
ब्याख्या-चतुरङ्गमुक्तखरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयम सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा | वाखेनान्तरेण च धुतकर्माशो विध्वस्ताशेषकर्मभागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन्न पुनरिहायातीत्याह-शाश्वतः शश्चद्भवनात्, शश्वद्भवनञ्च पुनर्भवनिवन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह-"दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्करः ॥ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥२०॥
കരയരയരയരയരയായമായവയ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥३॥ இல்ல
ண்ஸ்
UTR-1