SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ साधुवेषं स्वीकुरुते गच्छेन सहैव विहरति । प्रत्येकबुद्धानां तु जघन्यत एकादशाङ्गप्रमाणमुत्कृष्टतो देशोनदशपूर्वप्रमाणं श्रुतं स्यादिति । स्वयम्बुद्धा देवतार्पितं गुरुप्रदत्तं वा साधुनेपथ्यं स्वीकुर्वन्ति, प्रत्येकबुद्धास्तु देवताप्रदत्तमेवाङ्गीकुर्वन्तीत्यादिविस्तरो श्रीनन्दी सूत्र चूर्णि - प्रज्ञापनावृत्तितोऽवसेयः ॥ ये चैकस्मिन्समये एकाकिन एव मोक्षं गताः परं न तत्समकालमन्यः कश्चिन्मुक्तिमुपगत इत्येकसिद्धाः । तथैकस्मिन् समये ये जघन्यतो द्वावुत्कृष्टतोऽष्टाधिकशतसंख्याकाः शिवं गतास्तेऽनेकसिद्धाः । अत्राऽयं नियमस्तद्यथा - यद्येकमादौ कृत्त्वा द्वात्रिंशत्संख्यां यावत् प्रतिसमयं जीवास्सिद्धिं गच्छन्ति तर्हि उत्कृष्टतोऽष्टसमयान् यावद् गच्छन्ति, नवमे समये ववश्यमन्तरं जायते । त्रयत्रिंशत्संख्यामादौ कृत्त्वाऽष्टचत्वारिंशत्संख्यां यावत् सिद्धिं यान्ति A तदा सप्त समयं यावदनन्तरं नियमेन विरहः । अष्टचत्वारिंशतः षष्टिं यावत् पदसामयिकोऽविरहितो मोक्षगमनकालः, ततो 'विरहः । एकषष्टितो द्वासप्ततिं यावत् पञ्चसामयिको नैरन्तर्येण मुक्तिगमनानेहाः ततोऽवश्यमन्तरमुपजायते । त्रिसप्ततिमादौ कृत्त्वा चतुरशीतिं यावच्चतुःसामयिकी मोक्षगमनाद्धाऽविरहिता, ततो व्याघातः । पञ्चाशीत्याः पण्णवतिं यावत् त्रिसामयिकः कालोऽनन्तरमन्तरमुपजायते । पण्णवतिसंख्याया द्व्युत्तरशतं यावद्विसामयिक्यद्धा, ततो विरहः । त्र्युत्तरशतसंख्यामादौ कृत्वा अष्टाधिकशतसंख्याका एकं समयं यावत् सिद्धिमुपयान्ति, द्वितीये समयेऽवश्यं विरहः । इत्येवं सिद्धविशेषाः सम्यगवन्तव्याः । प्रतिसिद्धं च षड्भेदास्संगच्छन्ते तद्यथा - श्रीवीरजिनेश्वरो जिनसिद्धः, स एव तीर्थसिद्ध, स एव स्वलिङ्गसिद्धः, स एव पुरुषलिङ्गसिद्धः, स एव स्वयम्बुद्धसिद्धः स एव एकसिद्धः । मरुदेवा च अजिनसिद्धा, सैवाऽतीर्थसिद्धा, सैव गृहिलिङ्गसिद्धा, सैव स्त्रीलिङ्गसिद्धा, सैव स्वयम्बुद्धसिद्धा, सैव चैकसिद्धेत्येवमन्यत्राऽपि स्वधिया परिभावनीयम् ।। ५५ ।। V A V A T A T 5U55<5755<< M N G A L A
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy