SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ङ्गसिद्धपुरुषलिङ्गसिद्धनपुंसकलिङ्गसिद्ध-प्रत्येकबुद्धसिद्धस्वयंबुद्धसिद्धबुद्धबोधितसिद्ध-एकसिद्धानेकसिद्धभेदैः सिद्धाः पञ्चदशविधा इति । वस्तुतस्तु सिद्धा न पञ्चदशविधाः किन्तु द्विभेदभिन्नास्त्रिभेदभिन्ना वा । तद्यथा-सिद्धा द्विविधाः, जिनसिद्धा अजिनसिद्धाश्च, यद्वा सिद्धास्तीर्थातीर्थसिद्धभेदाभ्यां द्विविधाः, अथवा एकसिद्धाऽनेकसिद्धभेदाभ्यां सिद्धा द्विविधाः। अथवा सिद्धास्त्रिविधाः, गृहिलिङ्गसिद्धाः, अन्यलिङ्गसिद्धाः, स्वलिङ्गसिद्धाश्च, यद्वा स्त्रीलिङ्गसिद्धपुरुषलिङ्गसिद्धनपुंसकलिङ्गसिद्धभेदैवैविध्यं परिभावनीयम् , अथवा प्रत्येकबुद्धसिद्धबुद्धबोधितसिद्धस्वयंबुद्धसिद्धभेदैस्त्रिभेदभिन्नत्त्वमवगन्तव्यम् । उक्तानां भिन्नभिन्नापेक्षया द्विभेदानां त्रिभेदानां वा मध्ये निखिलानामपि सिद्धानामन्तर्भाव इत्यर्थः। नन्वस्तु द्विभेदभिन्नत्त्वं त्रिभेदभिन्नत्वं वा परं क्षपितकर्माष्टकानां तुल्यानन्तज्ञानदर्शनादिगुणानां सिद्धानां कथं भेदत्वं प्रतिपाद्यते ? भेदत्वं तु कर्मोदयजन्यं, तस्य च तेषां सर्वथाऽभावात् कथं भेदः इति चेदुच्यते-न सिद्धत्त्वावाप्यनन्तरं तेषां भेदः प्रतिपाद्यते, ये च जिनसिद्धाजिनसिद्धादिभेदाः प्रागुक्तास्ते निखिला अपि भवस्थावस्थामाश्रित्योपचारेण प्रोक्ता इति । यथा निखिला अपि सिद्धाः द्विभेदभिन्नाः, तद्यथा जिनसिद्धाः, अजिनसिद्धाश्च, तत्र जिनस्तीर्थकरः, तीर्थकरनामविपाकोदयानुभूततीर्थकरसमृद्धयः सन्तो ये शिवंगता ते जिनसिद्धाः, ये च सामान्यकेवलिवमनुभूय सिद्धत्त्वं प्राप्तास्तेऽजिनसिद्धाः । तीर्थकरास्तीर्थ प्रवर्त्तयन्ति, तदनन्तरश्च ये सिद्धिमुपगतास्ते तीर्थसिद्धाः, ये च तीर्थस्थापनायाः प्रागेव महानन्दपदवीमितास्तेऽतीर्थसिद्धाः । गृहस्थावस्थायामेव जन्मान्तराराधितसर्वविरतिसामर्थ्यादवाप्तकेवलज्ञानदर्शना अल्पायुष्कासन्तोऽन्तर्मुहूर्तान्तर्मोक्षं सम्प्राप्तास्ते गृहिलिङ्गसिद्धाः । तापसाद्यन्यलिङ्गव्यवस्थिता अपि तथाविधसम्यग्दर्शनज्ञानचारित्रयोगतः केवलज्ञानदर्शनावाप्तिपूर्वकं क्षीणाऽष्टकर्माणो ये मुक्ति जग्मुस्ते
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy