SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ल श्रीनवतत्त्व सुमङ्गलाटीकायां प्रकीर्णा पुद्गलपरा वत्ते स्वरूपम् ॥ ॥१६३॥ क्षेत्रपुद्गलपरावतः४, बादरकालपुद्गलपरावर्त्तः५, सूक्ष्मकालपुद्गलपरावतः६, बादरभावपुद्गलपरावर्त्तः७, सूक्ष्मभावपुद्गलपरावर्त्तश्च ८। तत्र संसारकान्तारे पर्यटन्नेकजीवोऽनेकैर्भवग्रहणैः सकललोकवर्तिनः सर्वानपि पुद्गलान् यावता कालेन औदारिकशरीरवैक्रियशरीरतैजसशरीरभाषाप्राणापानमनःकार्मणशरीरलक्षणपदार्थसप्तकभावेन यथास्वं परिणमय्य मुञ्चति स तावत्प्रमाणः कालो द्रव्यतो बादरः पुद्गलपरावर्तो भवति । सप्तानामौदारिकवैक्रियतैजसभाषाप्राणापानमनःकार्मणमध्यादन्यतरेण पुनरेकेन केनचिदौदारिकादिना पूर्वप्रदर्शितप्रकारेण सकललोकवर्तिपुद्गलानां औदारिकादिशरीरतया गृहीत्वा मोचने सूक्ष्मद्रव्यपुद्गलपरावर्तो भवति । विवक्षितौदारिकादिभेदाविशेषैः शेषैः षड्भिभेदैः परिणमिता अपि न गृह्यन्त इति । उभयभेदेऽपि आहारकशरीरं न ग्राह्यं, कादाचित्कत्त्वातल्लाभस्येति । एके त्त्वाचार्या एवं द्रव्यपुद्गलपरावर्त्तस्वरूपं प्रतिपादयन्ति, तथाहि-यदेको जीवोऽनेकैर्भवग्रहणैरौदारिकशरीरवैक्रियशरीरतैजसशरीरकामणशरीरचतुष्टयरूपतया यथास्वं सकललोकवर्तिनः सर्वान् पुद्गलान् परिणमय्य मुश्चति तदा बादरो द्रव्यपुद्गलपरावर्तो भवति । यदा पुनरौदारिकादिचतुष्टयमध्यादेकेन केनचिच्छरीरेण सर्वपुद्गलान् परिणमय्य मुश्चति शेषशरीरपरिणमितास्तु पुद्गला न गृह्यन्ते एव तदा सूक्ष्मो द्रव्यपुद्गलपरावर्तो भवतीति । यदाऽनन्तभवभ्रमणशीलो जन्तुरनन्तरेषु व्यवहितेषु चाऽपराऽपराऽऽकाशप्रदेशेषु म्रियमाणः सर्वानपि चर्तुदशरज्वात्मकलोकाकाशप्रदेशान् मरणेन स्पृशति तदा बादरक्षेत्रपुद्गलपरावर्तों भवति । येष्वाकाशप्रदेशेष्ववगाढो जन्तुरेकदा मृतस्तेभ्योऽनन्तरव्यवस्थितेष्वेव नभःप्रदेशेध्वन्यदापि यदि म्रियतेऽपरस्यां वेलायां तेषामप्यनन्तरव्यवस्थितेष्वाकाशप्रदेशेष्वन्यस्यां वेलायां तेषामप्यनन्तरव्यवस्थितेध्वाकाशप्रदेशेष्वन्यस्यां वेलायां तेषामप्यनन्तरेष्वन्येष्वेवं तावन्नेयं यावदित्थमपरापरेषु नैरन्तर्यव्यवस्थितेषु नभःप्रदेशेषु क्रमेण ॥१६३॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy