SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां सम्यगू दृष्टेस्स्वरूपम् ॥ ॥१६॥ त्वया चैतन्निरूपितं ज्ञानावरणमस्यावरणमिति, तत् कथमेतत् ? । उच्यते सत्यमेतदेवं, किन्तु मोहनीयोपशमादस्य ज्ञानावरणस्य क्षयः क्षयोपशमो वा भवति, ततः क्षयात् क्षयोपशमाच्च सम्यग्दर्शनमिति xxxx ॥ ५१॥ अथ किल्लक्षणं सम्यक्त्वं ? कीदृशी वा मतिः सम्यग्दर्शनिन इति प्रदर्शयति-- सव्वाइ जिणेसरभासियाई वयणाइ नन्नहा हुंति। इअ बुद्धी जस्स मणे, सम्मत्तं निच्चलं तस्स ॥५२॥ टीका;-'सब्बाइ ' इति, 'सर्वाणि जिनेश्वरभाषितानि वचनानि नाऽन्यथा भवन्ति ' इति यस्य मनसि बुद्धिस्तस्य निश्चलं सम्यक्त्वं स्यादिति । अत्र सर्वाणि जिनेश्वरभाषितानीति कथनेन एकादिवचनमृते निखिलमपि जिनेश्वरभाषितं मन्यमानानां जमालिप्रभृतिनिहवानां मिथ्यादृष्टित्त्वं प्रदर्श्यते, यत एकादिवचनगोचरोऽप्रत्ययः जिनेश्वराणां रागद्वेषमोहान्तरारिनिषदकानां सर्वज्ञचविषये बाधकः। जिनेश्वरास्तु गर्भत एव मतिश्रुतावधिलब्धिसंपन्ना जन्मानन्तरं गृहवासादि यथायोगमनुसरन्तः स्वयंबुद्धा अपि स्वोचिताचारपरिपालनार्थ समागतैर्लोकान्तिकदेवैः प्रतिबोधितास्सन्तो जन्मजरामरणातमशरणं जगजन्तुजातमुद्ध कामाः समृद्धं राज्यादिवैभवं तृणवदपहायैकान्तिकाऽऽत्यन्तिकशमावाप्त्यर्थं प्रव्रज्यामङ्गीकुर्वते, तदैव च विपुलमतिविशिष्टं चतुर्थ मनःपर्यायमुपलभन्ते । अनन्तरं सम्यक्त्वज्ञानचारित्रसंवराराधनकतत्परा ईर्यादिसमितिसम्पन्नाः पश्चाचाराचरणप्रयता उपसर्गपरीपहादिसेनां निर्जित्य क्षपकश्रेणिसमारूढाः सूक्ष्मसम्पराये मोहनीयमुन्मूल्य द्वादशगुणान्ते प्रक्षीणावशेषघातिकर्माणः स्वस्वछद्मस्थकालमतिगमय्य त्रयोदशगुणाद्यसमये केवलज्ञानं केवलदर्शनं च संप्राप्नुवन्ति, तत एव विगतरागद्वेषाज्ञानाः देवनिर्मितसमवसरणविराजमानाः सुरासुरनृतियपर्पत्सेव्यमाना यथावस्थितवस्तुतच्चावबोधिनी देशनां 5529zy05 -
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy