________________
प्र.भाष्य
सावचूरि०
॥ ५३॥
अपि कृतवन्तः, संप्रति तु व्यवच्छिन्नम् । सहाकारैरनाभोगादिभिः साकारम् ५। अविद्यमानाकारमनाकारम् ६ । परिमाणकृतं, दत्त्यादिकृतपरिमाणम् । निरवशेष समग्राशनादिविषयम् ८ । केतं चिहं अङ्गुष्ठादि, सह केतेन सकेतम् ९ । अद्धा कालस्तद्विषयं प्रत्याख्यानं पौरुष्यादि १०॥२॥प्रकारान्तरेण दश प्रत्याख्यानान्याहनवकारसहिअ पोरिसि, पुरिमडेगासणेगठाणे या आयंबिल अभतडे, चरिमे अभिग्गहे विगैई ॥३॥
नमस्कारसहितम् १। पौरुषी २॥ पुरिमार्द्धः ३ । एकाशनम् ४ । एकस्थानं च शरीराकुश्चनप्रसारणरहितम् ५। आचाम्लम् ६ । अभक्तार्थ उपवासः ७ । चरिमप्रत्याख्यानं दिवसचतुर्थप्रहरान्ते चतुर्विधाहारं क्रियते ८ । अभिग्रहप्रत्याख्यानं दत्त्यष्टकवलादिप्रमाणरूपम् । विकृतिप्रत्याख्यानं निर्विकृतिकमित्यर्थः१०। एवमपि दश प्रत्याख्यानानि भवन्ति, सांप्रतका-15 | लेऽपि कर्त्तव्यानि ॥ ३ ॥ द्वितीय विधिद्वारमाहउग्गए सूरे अनमो, पोरिसि पञ्चक्ख उग्गए सूरे। सूरे उग्गए पुरिमं, अभतडं पच्चखाइत्ति ॥ ४ ॥ भणइ गुरू सीसो पुण, पञ्चक्खामित्ति एव वोसिरइ। उवओगित्थपमाणं, न पमाणं वंजणच्छलणा॥५॥ 'उग्गए सूरे नमुक्कारसहि पच्चक्खामि' इति नमस्कारसहितप्रत्याख्याने उच्चारविधिः १ । पौरुषीसार्द्धपौरुष्योस्तु
1 अ-क-पुस्तकयोः पूर्व अनाकारावचूरि निर्दिश्य पश्चात् साकारावचूरिनिर्दिष्टा दृश्यते । परं बहुपुस्तकपाठो मूल आदृत इति । गाथायां तु क्रमोऽनन्तरोक्त एव । 2 अस्मदासन्नवर्तिषु षट्सु पुस्तकेषु पूर्व परिमाणकृतं निर्दिश्य पश्चाद् निरवशेष निर्दिष्टमस्ति, परं गाथायां तु व्यत्ययेन दृश्यते । 3 ख-'उगए' 14 ख-'उगए'। 5 क-च-'नमस्कारसहिते' ।
॥५३॥