________________
चै.वं.भाष्य
truturante
त्रिकपूर्व पूजां कृत्वा वन्दनां चिकीर्षुर्यथोचितदिगवग्रहस्थस्तृतीयां जिनपूजाकरणव्यापारपरित्यागरूपांनषेधिकीं करोति ॥८॥ अंजेलिबंधो अद्धोणेओ अ पंचंगओ अतिपणामा । सव्वत्थ वा तिवारं, सिराइनमणे पणामतियं ॥९॥
एकः प्रणामोऽञ्जलिवन्धरूपः । अन्य ऊर्ध्वावनतरूपः, ऊर्ध्वादिस्थानस्थितैः किश्चिच्छिरोनमनं शिरःकरादिना भूपदादिस्पर्शनं चैत्यादिस्वरूपः, एकाङ्गादिचतुराङ्गान्तप्रणामानामुपलक्षणमिदम् । अर्धानि न सर्वाणि प्रकृताङ्गमध्यादङ्गान्यवनतानि पत्र प्रणामेऽसावर्धावनत इति व्युत्पत्तेः । अपरस्तु 'पञ्चाङ्गः' पञ्चाङ्गानि जानुद्वयकरद्वयशिरोलक्षणानि भूस्पृष्टानि यत्रत स पश्चाङ्गः। सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्तप्रणामेषु वा प्रणामकरणकाले त्रीन् वारान् शिरःकराञ्जल्यादेनं-12 मनावर्त्तनादिना प्रणामत्रिक, भवति कर्त्तव्यम् ॥९॥ ___ अंगग्गेभावभेया, पुप्फाहारत्थुईहिँ पूयतिगं । पंचुवारा अट्ठोवैयार सबोवैयारा वा ॥१०॥
पुष्पेत्युपलक्षणं तेन निर्माल्यापनयनप्रमार्जनाङ्गप्रक्षालनाद्यनन्तरं नित्यं विशेषतश्च पर्वसु त्रिपञ्चसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व गन्धोदकादिभिः स्नपन, पुनः शुद्धोदकादिभिः सधारं प्रक्षालनं, सुकुमालवस्त्रेणाङ्गलुञ्छनं, विलेपनाजबादिविधान, यावजिनहस्ते नालिकेरादिमोचनं, धूपोत्क्षेपसुगन्धवासप्रक्षेपाद्यपि च सर्वमङ्गपूजायां स्यात् । आहारग्रहणात्पुष्पकरप्रदीपजललवणारात्रिकनृत्याद्यपि गृहीतम् । भावपूजा स्तुतिभिः सद्भूततीर्थकृद्गुणपरावर्तनपराभिर्याग्भिः। अथवा पञ्चोपचारा प्रायोऽङ्गापूजाविषया। पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः । अधिवासो गन्धमाल्यादिभिः संस्कारविशेषः । अन्ये तु एव
1 घ-'अञ्जलिबन्धः करद्वयं संयोज्य शीर्षादौ स्थापनम् । इति विशेषेण स्फुटीकरणम् । 2 च-'प्रकर' इति नास्ति ।