SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ व्याख्या - इष्टस्य विवक्षितस्य प्रतरस्यैकस्यां दिशि या नरकावाससङ्ख्या साऽष्टनिर्गुण्यते, गुणिता सती त्रिरहिता त्रिरूपरहिता तस्मिन् विवक्षिते प्रतरे जवति सकल दिग्विदिग्गतावलिकाप्रविष्टनर कावाससङ्ख्या । यथा रत्नप्रजायां पृथिव्यां प्रथमे प्रस्तट एकस्यां दिशि नरकावाससङ्ख्यै कोनपञ्चाशत्, साऽष्टनिर्गुण्यते, जातानि त्रीणि शतानि विनवत्यधिकानि ३०२, तानि त्रिरहितानि क्रियन्ते, जातानि त्रीणि शतान्येकोननवत्यधिकानि ३८९ । एतावन्तो रत्नप्रजायां प्रथमे प्रस्तटे सकल दिग्वि दिग्गतावलिकाप्रविष्टा नरकावासाः । तथा द्वितीये प्रस्तट एकस्यां दिशि नरकावासा अष्टाचत्वारिंशत् ४०, साऽष्टनिर्गुण्यते, जातानि त्रीणि शतानि चतुरशीत्यधिकानि ३०४, तानि त्रिरूपहीनानि क्रियन्ते स्थितानि शेषाणि त्रीणि शतान्येकाशीत्यधिकानि ३८१ । एतावन्तो द्वितीये प्रस्तट यावलिकाप्रविष्टा नरकावासाः । एवं शेषेष्वपि प्रस्तटेषु प्रत्येकं जावनीयं यावदेकोनपञ्चाशत्तमे प्रस्तट एकस्यां दिश्येको नरकावासः, सोऽष्टनिर्गुण्यते, जाता अष्टौ ते त्रिरूपहीनाः क्रियन्ते, स्थिताः शेषाः पञ्च । एतावन्तस्तत्रावलिकाप्रविष्टा नरकावासाः ॥ सम्प्रति समस्त पृथिवी गतानामावलिकाप्रविष्टानां नरकावासानां परिज्ञानाय करणं विवक्षुः प्रश्रमतो मुखभूमीः प्रतिपादयतिपढमो मुहमंतिम, भूमिं तेसिं मुसु संखं ॥ २५ ॥ व्याख्या–प्रथमः प्रथमप्रतरगतो नरकावाससमुदायो मुखं, पश्चानुपूर्व्या तस्य मुखस्थानवर्तित्वात् । अन्तिमः सर्वा - न्तिमप्रतरगतो नरकावाससमुदायो जूमिः पश्चानुपूर्व्या तस्यादिनूतत्वात् । ततः सम्प्रति तयोर्मुखजूम्योः सङ्ख्यापरि माणं शृणु ॥ २५९ ॥ २५- ।
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy