________________
वृहत्सं०
॥ ४६ ॥
धुना मनुष्यक्षेत्राद्वद्दिश्चन्द्राणां सूर्याणां च परस्परमन्तरप्रमाणमाह
सूरस्स य सूरस्त य ससियो ससिणो य अंतरं दिशं । वाहिं तु माणुसनगस्स जो गाणं सय सदस्मं ॥ ११४॥
व्याख्या - मानुषनगस्य मानुषोत्तराभिधस्य पर्वतस्य वहिः सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य च परम्परमन्तरं दृष्टं तीर्थकरगणधरैरेकं परिपूर्ण योजनानां शतसहस्रं । तथाहि - चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्रा वहिन्यव स्थिताश्चन्द्रसूर्याणां च परस्परमन्तरमन्यूनानि पञ्चाशद्योजनसहस्राणि २०००० । तथा चोक्तं सूर्यप्रक्रम - "चंदान सूरस्स य सूरा चंदस्स अंतरं होई । पचास सहस्साई जो अणाएं अणूलाई ॥ १ ॥ एतच्च प्रागेवोक्तं ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरं योजनानां लक्षं जवतीति ॥ ११४ ॥
सम्प्रति बहिश्चन्द्रसूर्याणां पङ्काववस्थानमाह
सूरंत रिक्षा चंदा चंदंतरिया य दियरा दित्ता । चित्तंतरलेसागा सुदलेसा मंदलेसा य ॥ ११५ ॥ व्याख्या – नृलोकाद्बहिः पङ्क्त्या स्थिताः सूर्यान्तरिताश्चन्द्राश्चन्त्रान्तरिता दिनकरा दीप्ता दीप्यन्ते, दीप्ता जाखरा इत्यर्थः । कथं भूतास्ते चन्द्रसूर्या इत्याह- चित्रान्तरलेश्याकाश्चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा । तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां च चन्द्रान्तरितत्वात् । चित्रा लेश्या चन्द्रमसां शीतरमित्वात् सूर्याणामुष्ण| रश्मित्वात् । लेश्याविशेषप्रदर्शनार्थमेवाह - "सुलेसा मंदलेसा य" सुखखेश्याश्चन्द्रमसो न शीतकालादी मनुष्यलोक | इवैकान्ततः शीतरश्मय इत्यर्थः । मन्दतेश्याः सूर्या न मनुष्यलोके निदाघसमय इवात्यन्तमुष्णरश्मय इति भावः । आद
सटीक
॥ ४६ ॥