SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ द ERIOD मोदये वर्तमानस्य यश-कीर्त्ययशःकीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तकं हुंडसंस्थान सेवार्तसंहनन उपघातनाम प्रत्येक नामेत्येकादशकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततो जाता द्विपञ्चाशत् । अत्र च भङ्गास्त्रयः, ते च प्रागिव द्रष्टव्याः। ततः | शरीरपर्याप्या पर्याप्तस्य विहायोगतिपराघातयोः प्रक्षिप्तयोश्चतुःपञ्चाशद्भवति । अत्र यश-कीर्त्ययश कीर्तिभ्यां द्वौ भनौ । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिब द्वौ भङ्गो । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासे ऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रावि प्रागिव द्वौ भंगौ । सर्वेऽपि पञ्चपञ्चाशति चत्वारो भंगाः। ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते पद्पश्चाशद्भवति । अत्र सुस्वरदुःस्वरयशकीर्त्ययश-कीर्तिपदैश्चत्वारो भंगाः । अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशद्भवति । अत्र यशाकीर्त्ययशः-- कीर्तिभ्यां द्वौ भंगौ । सर्वे षट्पञ्चाशति षड्भंगाः । ततो भाषापर्याप्या पर्याप्तस्य स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते १४ | सप्तपञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयश-कीर्त्ययश-कीर्तिपदैश्चत्वारो भंगाः। सर्वे द्वीन्द्रियाणां भंगा द्वाविंशतिः। एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च पत्येकमुदीरणास्थानानि भावनीयानि । नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतु रिन्द्रियजातिरभिधातव्या । प्रत्येकं च भंगा द्वाविंशतिरवसेयाः ।सर्वसंख्यया विकलेन्द्रियाणां भंगाः षट्षष्टिः । | तिर्यकपञ्चेन्द्रियाणां वैक्रियलब्धिरहितानामुदीरणास्थानानि षट् । तद्यथा-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यौं पञ्चेन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरत् युगलं यशाकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिर्धवो
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy